|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.167. अध्यायः 167
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कृतघ्नमित्रद्रोहिलक्षणकथनाय दृष्टान्ततया गौतमकथाकथनारम्भः॥ 1॥ ब्राह्मणाधमेनकेनचिद्गौतमकुलजेन धनार्जनाय दस्युग्रामप्रवेशः॥ 2॥ तत्र केनचिद्दस्युवरेण भर्तृविरहितनारीसमर्पणादिना सत्कृतेन गौतमेन दस्युवृत्त्योपजीवनम्॥ 3॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-167-0x(5855)(71703)
विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि तत्त्वतः।
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद॥ 12-167-1(71704)
भीष्म उवाच। 12-167-2x(5856)
हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्।
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप॥ 12-167-2(71705)
ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः।
ग्रामं दस्युगणाकीर्णं प्राविशद्धनतृष्णया॥ 12-167-3(71706)
तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित्।
ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत्॥ 12-167-4(71707)
तस्य क्षयमुपागम्य ततो भिक्षामयाचत।
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम्॥ 12-167-5(71708)
प्रादात्तस्मै स विप्राय वस्त्रं च सदशं नवम्।
नारीं चापि वयोपेतां भर्त्रा विरहितां तथा॥ 12-167-6(71709)
एतत्संप्राप्य हृष्टात्मा गौतमोऽथ द्विजस्तथा।
तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः॥ 12-167-7(71710)
कुटुस्बार्थं च दस्योश्च साहाय्यं चाप्यथाकरोत्।
सोऽवसद्वर्षमेकं वै समृद्धे शबरालये॥ 12-167-8(71711)
बाणवेधे परं यत्नमकरोच्चैव गौतमः।
चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान्।
जघान गौतमो राजन्यथा दस्युगणास्तथा॥ 12-167-9(71712)
हिंसापटुर्घृणाहीनः सदा प्राणिवधे रतः।
गौतमः सन्निकर्षेण दस्युभिः समतामियात्॥ 12-167-10(71713)
तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा।
अगमन्बहवो मासा निघ्नतः पक्षिणो बहून्॥ 12-167-11(71714)
ततः कदाचिदपरो द्विजस्तं देशमागतः।
जटाचीराजिनधरः स्वाध्यायनिरतः शुचिः॥ 12-167-12(71715)
विनीतो वेदशास्त्रेषु वेदान्तानां च पारगः।
अदृश्यत ततस्तत्र सखा तस्यैव तु द्विजः।
तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत्॥ 12-167-13(71716)
स तु विप्रगृहान्वेपी शूद्रान्नपरिवर्जकः।
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतो द्विजः॥ 12-167-14(71717)
ततः स गौतमगृहं प्रविवेश द्विजोत्तमः।
गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ॥ 12-167-15(71718)
चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम्।
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम्॥ 12-167-16(71719)
तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षमागतम्।
अभिज्ञाय द्विजो व्रीडन्निदं वाक्यमथाब्रवीत्॥ 12-167-17(71720)
किमिदं कुरुपे मोहाद्विप्रस्त्वं हि कुलोद्भवः।
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम्॥ 12-167-18(71721)
पूर्वान्स्मर द्विज ज्ञातीन्प्रख्यातान्वेदपारगान्।
येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः॥ 12-167-19(71722)
अवबुध्यात्मनाऽऽत्मानं सत्वं शीलं श्रुतं दमम्।
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज॥ 12-167-20(71723)
स एवमुक्तः सुहृदा तेन तत्र हितैपिणा।
प्रत्युवाच ततो राजन्विनिश्वस्य तदाऽऽर्तबत्॥ 12-167-21(71724)
निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम्।
वित्तार्थमिह संप्राप्तं विद्धि मां द्विजसत्तम॥ 12-167-22(71725)
त्वद्दर्शनात्तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज।
अध्वानं सह यास्यावः श्वो वसस्वाद्य शर्वरीम्॥ 12-167-23(71726)
स तत्र न्यवसद्विप्रो घृणी किंचिदसंस्पृशन्।
क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत॥ ॥ 12-167-24(71727)
इति श्रीमन्महाभारते शान्तिपर्वनि आपद्धर्मपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः॥ 167॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-167-3 ब्रह्म वेदस्तदुक्तं कर्म च तद्विवर्जितः ग्रामं वृद्धियुतं वीक्ष्य प्राविशद्भैक्ष्यकाङ्क्ष्येति झ. पाठः॥ 12-167-5 क्षयं गृहम्॥ 12-167-6 वयोपेतां युवतीम्। सन्धिरार्षः॥ 12-167-9 चक्राङ्गान् हंसान्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|